संवादः कक्षा छठवीं विषय संस्कृत पाठ 1
संवादः कक्षा छठवीं विषय संस्कृत पाठ 1
हट्टवार्ताः (गीता गच्छति हट्टम् )
मोहनः – गीते ! त्वं कुत्र गच्छसि ?
गीता-मोहन ! अहं हट्टं प्रति गच्छामि ।
मोहनः – गीते ! किमर्थम् ?
गीता – मोहन ! शाकं फलं च क्रेतुम् । अधुना त्वं कुत्र गच्छसि ?
मोहनः – गीते ! अधुना अहं गृहं प्रति गच्छामि ।
शब्दार्था:- संवादः = बातचीत, हट्टम् = बाजार, कुत्र = कहाँ, त्वं = तुम, किमर्थम् = क्यों, च = और, क्रेतुम् = खरीदने के लिए, अधुना = अब, अहं = मैं।
अनुवाद-
मोहन – गीता ! तुम कहाँ जा रही हो ?
गीता- मोहन! मैं बाजार की ओर जा रही हूँ।
मोहन- गीता! किसलिए ?
गीता -मोहन! सब्जी और फल खरीदने के लिए। इस समय तुम कहाँ जा रहे हो ?
मोहन – गीता! इस समय मैं घर की और जा रहा हूँ।
1.2. छात्रालापः
वासुदेवः – भोः मित्र ! त्वं कस्यां कक्षायां पठसि ?
सुरेशः – मित्र ! अहं षष्ठयां कक्षायां पठामि । त्वं कस्यां कक्षायां पठसि ?
वासुदेवः – अहं सप्तम्यां कक्षायां पठामि ।
सुरेश: – तव कक्षायाः आचार्यस्य किं नाम अस्ति ?
वासुदेव:- मम कक्षायाः आचार्यस्य नाम ज्ञानानन्दः अस्ति ।
तव कक्षायाः आचार्यस्य नाम ?
सुरेशः-मम कक्षायाः आचार्यस्य नाम परमानन्दः अस्ति ।
वासुदेव:- तव कक्षायां कति छात्राः पठन्ति ?
सुरेशः – मम कक्षायां चत्वारिंशत् छात्राः पठन्ति तव कक्षायाम् च ?
वासुदेवः – मम कक्षायां पञ्चाशत् छात्राः पठन्ति ।
शब्दार्था:-
आलापः = बातचीत, कस्यां = किस, कक्षायां = कक्षा में, षष्ठयां = छठवीं, सप्तम्यां सातवीं, तव = तुम्हारे, आचार्यस्य = शिक्षक का, अस्ति = है, कक्षायाः = कक्षा के ।
मम = मेरे, तव = तुम्हारे, कक्षायां = कक्षा में, कति = कितने, पठन्ति = पढ़ते हैं, चत्वारिंशत् = चालीस, पञ्चाशत् = पचास।
अनुवाद-
वासुदेव -हे मित्र ! तुम किस कक्षा में पढ़ते हो?
सुरेश- मित्र! मैं छठवीं कक्षा में पढ़ता हूँ। तुम किस कक्षा में पढ़ते हो ?
वासुदेव – मैं सातवीं कक्षा में पढ़ता हूँ ।
सुरेश- तुम्हारी कक्षा के आचार्य का क्या नाम है ? तुम्हारी कक्षा के आचार्य का नाम ?
वासुदेव- मेरी कक्षा के आचार्य का नाम ज्ञानानन्द है।
सुरेश- मेरी कक्षा के आचार्य का नाम परमानन्द है ।
वासुदेव- तुम्हारी कक्षा में कितने छात्र पढ़ते हैं ?
सुरेश- मेरी कक्षा में चालीस छात्र पढ़ते हैं और तुम्हारी कक्षा में ?
वासुदेव -मेरी कक्षा में पचास छात्र पढ़ते हैं ।
शब्दार्था:-
1.3. परिजन संवादः
सुशीला – सखे! तव किं नाम अस्ति ?
विमला – मम नाम विमला अस्ति । सखे ! तव किं नाम अस्ति ?
सुशीला – मम नाम सुशीला अस्ति ।
विमला – त्वं कुत्र वससि ?
सुशीला -अहं रायपुर आख्ये नगरे वसामि । त्वम् च ?
विमला- अहं बिलासपुर आख्ये नगरे वसामि ।
शब्दार्थाः –
सखे! = हे सहेली, किं = क्या, अस्ति = है, तव = तुम्हारा, कुत्र = कहाँ, वससि =रहती हो, अहं= मैं, आख्ये = नामक, नगरे = नगर में, त्वम् = तुम, वसामि =रहता हूँ।
अनुवाद-
सुशीला- सखी तुम्हारा क्या नाम है?
विमला- मेरा नाम विमला है। सखी! तुम्हारा क्या नाम है।
सुशीला- मेरा नाम सुशीला है।
विमला – तुम कहाँ रहती हो ?
सुशीला- मैं रायपुर नामक नगर में रहती हूँ। और तुम?
विमला- मैं बिलासपुर नामक नगर में रहती हूँ।
सुशीला – तव पितुः किं नाम अस्ति ?
विमला – मम पितुः नाम श्री सुशीलकुमारः अस्ति। तव पितुः नाम ? 1
सुशीला- मम पितुः नाम चन्द्रकुमारः अस्ति ।
विमला – तव पिता किं कार्यं करोति ?
सुशीला – मम पिता कृषिकार्यं करोति । तव पिता ?
विमला – मम पिता अध्यापकः अस्ति।
शब्दार्था:- पितुः = पिता का, अस्ति = है, मम = में, किम् = क्या, करोति= करते हैं, कृषिकार्य =खेती किसानी का कार्य, तव = तुम्हारे, अध्यापक= शिक्षक।
अनुवाद-
सुशीला – तुम्हारे पिता का क्या नाम है ?
विमला- मेरे पिता का नाम श्री सुशील कुमार है। तुम्हारे पिता का नाम ?
सुशीला मेरे पिता कृषि कार्य करते हैं। तुम्हारे पिता ?
विमला- मेरे पिता अध्यापक है।
सुशीला- मेरे पिता का नाम चन्द्रकुमार है।
विमला- तुम्हारे पिता क्या कार्य करते हैं ?
सुशीला -मम एका अग्रजा अस्ति । तव ?
विमला -मम द्वौ अनुजौ स्तः । अग्रजा न अस्ति।
सुशीला – तव माता कीदृशी अस्ति ?
विमला – मम माता अति सरला अस्ति। तव माता ? –
सुशीला – मम मातुः स्वभावः सरलः मधुरः च अस्ति ।
शब्दार्था:- मम = मेरे, एका = एक, अग्रजा= बड़ी बहन द्वौ= दो, अनुजौ = छोटे भाई, स्तः = हैं, न = नहीं, माता = माँ, कीदृशी= कैसी, अस्ति =है, सरला= सीधी, मातुः =माँ का
अनुवाद- सुशीला मेरी एक बड़ी बहन है। तुम्हारी ।
विमला -मेरे दो छोटे भाई है। बड़ी बहन नहीं है।
सुशीला-तुम्हारी माता कैसी है ?
विमला- मेरी माता बहुत सीधी है। तुम्हारी माता ?
सुशीला- मेरी माता का स्वभाव सरल एवं मधुर है।
1.4. मनोहरम् उद्यानम्
गोपालः – कृष्ण त्वं प्रातःकाले कुत्र गच्छसि ?
कृष्णः – गोपाल ! अहं प्रातः काले उद्यानं प्रति गच्छामि।
गोपालः- कृष्ण उद्याने कति वृक्षाः सन्ति ?
कृष्णः- गोपाल ! उद्याने अनेके वृक्षाः सन्ति ?
गोपालः – कृष्ण ! केषाञ्चित् वृक्षाणां नामानि वद ।
शब्दार्थ:- मनोहरम् =सुन्दर, उद्यानम् =बगीचा, प्रातःकाले= सुबह, कुत्र =कहाँ, गच्छसि =जाते हो, अहं= मैं, कति=कितने, उद्याने= बगीचा में, वृक्षाः =पेड़ ,सन्ति =है।
अनुवाद-
गोपाल- कृष्ण ! तुम प्रातःकाल कहाँ जाते हो ?
कृष्ण- गोपाल में प्रातःकाल उद्यान को जाता हूँ।
गोपाल- कृष्ण ! उद्यान में कितने वृक्ष हैं ?
कृष्ण- गोपाल । उद्यान में अनेक वृक्ष हैं।
कृष्णः-गोपाल! अशोकवृक्षाः, वटवृक्षाः, निम्बवृक्षाः इत्यादयः बहवः वृक्षाः सन्ति ।
गोपाल: -कृष्ण! त्वम् उपवने कथम् अनुभवसि ?
कृष्णः -गोपाल! अहं उपवने मनोहरम् अनुभवामि।
शब्दार्थाः- केषाञ्चित् =कुछ, वृक्षाणां= पेड़ों के, वद= बोलो, वटवृक्षाः = बरगद के पेड़, निम्बवृक्षाः= नीम के पेड़ इत्यादयः = इत्यादि, बहवः = बहुत कथम् =कैसा, अनुभवसि = अनुभव करते हो, मनोहरम् = अच्छा सुन्दर, अनुभवामि= अनुभव करता है।
अनुवाद-
गोपाल- कृष्ण कुछ वृक्षों के नाम बताओ।
कृष्ण- गोपाल अशोक वृक्ष वट (बरगद) वृक्ष, नीम वृक्ष इत्यादि बहुत से वृक्ष हैं।
गोपाल -कृष्ण! तुम उपवन में कैसा अनुभव करते हो?
कृष्ण-गोपाल में उपवन में अच्छा अनुभव करता हूँ।
1.5- बुभुक्षिता लोमशा
पल्लवी -पूजे ! अहम् अद्य एक लोमशाम् अपश्यम् ।
पूजा -पल्लवि! त्वं तां लोमशाम् कुत्र अपश्यः ?
पल्लवी -पूजे ! अहं वने अपश्यम् ।
पूजा- पल्लवि! सा लोमशा अति बुभुक्षिता आसीत् ।
शब्दार्थाः -पूजे= हे पूजा, अद्य =आज , एकां= एक, लोमशाम् = लोमड़ी, अपश्यम् =देखा, तां=उस, कुत्र =कहाँ, वने =वन में, सा= वह, अति =अधिक, बुभुक्षिता = भूखी, आसीत् = थी।
पल्लवी- पूजा! मैंने आज एक लोमड़ी देखी ।
पूजा= पल्लवी तुमने उस लोमड़ी को कहाँ देखा ?
पल्लवी -पूजा। मैंने वन में देखा ।
पूजा – पल्लवी! वह लोमड़ी बहुत भूखी थी।
पल्लवी- पूजे सा लोमशा क्षुधाशान्त्यर्थं वृक्षस्य उपरि भागे द्राक्षायाः फलानि दृष्ट्वा उत्पत्तति ।
पूजा – पल्लवि! परन्तु द्राक्षायाः फलानि अति उपरि आसन् ।
पल्लवी -पूजे! सा लोमशा पुनः पुनः उत्पतति। परं द्राक्षायाः फलानि न प्राप्नोत् ।
पूजा-पल्लवि! सा लोमशा कथयति अहं द्राक्षायाः फलानि न खादामि । द्राक्षायाः फलानि अम्लानि सन्ति।
शब्दार्था:- क्षुधाशान्त्यर्थं =भूख शान्त करने के लिये, द्राक्षाया:= अंगूर के, आसन्= थे, पुनः =पुनः, चार=चार, परं=परंतु ,कथयति= कहती है, अम्लानि =खट्टे, सन्ति= हैं।
अनुवाद- पल्लवी-पूजा । वह लोमड़ी भूख शान्त करने के लिए वृक्ष के ऊपरी भाग अंगूर के फलों को देखकर उछलती है।
पूजा -पल्लवी ! परन्तु अंगूर के फल बहुत ऊपर थे।
पल्लवी :- पूजा! वह लोमड़ी चार बार उछलती है, परन्तु अंगूर के फलों की नहीं प्राप्त कर पाती है।
पूजा -पल्लवी! वह लोमड़ी कहती हैं – मैं अंगूर के फलों को नहीं खाती हूं। अंगूर के फल खट्टे हैं।
अभ्यास प्रश्नाः
1. रिक्त स्थानों की पूर्ति कीजिए-
उत्तर (क) –
मोहनः- गीते! त्वं कुत्र गच्छसि ?
गीता – मोहन! अहं हट्टं प्रति गच्छामि।
मोहनः – गोते! किमर्थम् ?
गीता- मोहन ! शाकं फलं च क्रेतुम्। अधुना त्वं कुत्र गच्छसि ?
मोहन:- गीते! अधुना अहं गृहं प्रति गच्छामि ?
उत्तर (ख ) –
गोपाल:- कृष्ण ! त्वम् प्रात:काले कुत्र गच्छसि ?
कृष्णः- गोपाल! अहं प्रातः काले उद्यानं प्रति गच्छामि।
गोपाल: कृष्ण ! उद्याने कति वृक्षाः सन्ति ।
कृष्णः – गोपाल! उद्याने अनेके वृक्षाः सन्ति।
गोपालः – कृष्ण ! केषाञ्चित् वृक्षाणां नामानि वद ।
कृष्णः- गोपाल ! अशोकवृक्षाः, वटवृक्षाः निम्बवृक्षाः इत्यादयः बहवः वृक्षाः सन्ति।
गोपालः कृष्ण ! त्वम् उपवने कथं अनुभवसि ?
कृष्णः – गोपाल! अहं उपवने मनोहरम् अनुभवामि।
उत्तर (ग) –
पल्लवी – पूजे! अहम् अद्य एकां लोमशाम् अपश्यम्।
पूजा – पल्लवि! त्वं तां लोमशां कुत्र अपश्यः ?
पल्लवी- पूजे! अहं वने अपश्यम् ।
पूजा – पल्लवि! सा लोमशा अति बुभुक्षिता आसीत्। –
पल्लवी – पूजे। सा लोमशा क्षुधाशान्त्यर्थं वृक्षस्य उपरि भागे द्राक्षायाः फलानि दृष्ट्वा उत्पतति।
पूजा- पल्लवि! परन्तु द्राक्षायाः फलानि अति उपरि आसन्।
पल्लवी – पूजे सा लोमशा पुनश्च उत्पतति पर दाया फलानि न प्राप्नोत् ।
पूजा – पल्लवि सा लोमशा कथयति अहं द्राक्षायाः फलानि न खादामि द्राक्षायाः फलानि अम्लानि सन्ति।